61

वंशाग्र आदि अंकुरशाकगुण ।

वंशाग्राणि शतावरीशशशिरावेत्राग्रवज्रीलता ।
शेवालीवरकाकनाससहिताः मार्द्यंकुराः सर्वदा ॥
शीताः श्लेष्मकरातिवृष्यगुरुकाः पित्तप्रशांतिप्रदाः ।
रक्तोष्मापहरा बहिर्गतमलाः किंचिन्मरुत्कोपनाः ॥ ३० ॥

भावार्थः--The Hindi commentary was not digitized.

जीवंती आदि शाकगुण

जीवंती तरुणी बृहच्छगलिका वृक्षादनी पंजिका ।
चुंचुः कुन्डलता च बिंबसहिताः सांग्राहिका वातलाः ।
बाष्पोत्पादकपालकद्वयवहा जीवंतिकाश्लेष्मला ।
चिल्लीवास्तुकतण्डुलीयकयुताः पित्ते हिता निर्मलाः ॥ ३१ ॥

भावार्थः--The Hindi commentary was not digitized.

शार्ङेष्टादि शाकगुण

शांर्ङिष्टा सपटोलपानिकचरी काकादिमाचीलता ।
मण्डूक्या सह सप्तलाद्रवणिका छिन्नोद्भवा पुत्रिणी ।
निंबाद्यः सकिराततिक्तझरसी श्वेतापुनर्भूस्सदा ।
पित्तश्लेष्महराः क्रिमिप्रशमनास्त्वग्दोषनिर्मूलनाः ॥ ३२ ॥

भावार्थः--The Hindi commentary was not digitized.