62

गुह्याक्षी आदि पत्र शाकगुण

गुह्याक्षी सकुसुंभ शाकलवणीराज्याजिगंधादयो ।
गौराम्लाम्रदलाखलाकुलहला गंडीरवेगुण्डिकाः ।
शिग्रूजीरशतादिपुष्पसुरसा धान्यं फणी सार्जकाः ।
कासघ्नी क्षवकादयः कफहरास्सोष्णाः सवाते हिताः ॥ ३३ ॥

भावार्थः--The Hindi commentary was not digitized.

बंधूक आदि पत्राशाकों के गुण ।

बंधूका भृगुशोलिफेनदलितां वेण्याखुकर्ण्याढकी ।
वध्वापीतमधुस्रवादितरलीकावंशिनी षड्गुणा ।
मत्स्याक्षीचणकादि पत्रसहिता शाकप्रणीता गुणाः ।
पित्तघ्नाः कफवर्द्धना बलकराः रक्तामयेभ्यो हिताः ॥ ३४ ॥

भावार्थः--The Hindi commentary was not digitized.

शिग्रु+आदिपुष्पशाकोंके गुण ।

शिग्व्रारग्वधशेलुशाल्मलिशमीशालूकसत्तिंत्रिणी ।
कन्यागस्त्यसणप्रतीतवरणारिष्टादिपुष्पाण्यपि ।
वातश्लेष्मकराणि पित्तरुधिरे शांतिप्रदान्यादरात् ।
कुक्षौ ये क्रिमयो भवंति नितरां तान् पातयंति स्फुटं ॥ ३५ ॥

भावार्थः--The Hindi commentary was not digitized.

19
  1. वग्वाषाटमधुस्रवाटितरलीकावंसती सण्णिगुडा । इति पाठातंरं ॥