65

भावार्थः--The Hindi commentary was not digitized.

आम्रादि अम्लफल शाकगुण ।

आम्राम्रातकमातुलंगलकुचप्राचीनसत्तिंत्रिणी--।
कोद्यद्दाडिमकोलचव्यबदरीकर्कंदुपारावताः ॥
प्रस्तुत्यामलकप्रियालकरबंदीवेत्रजीवाम्रको--।
र्वारुप्रोक्तकुशांब्रचिर्भटकपित्थादीन्यथान्यान्यपि ॥ ४२ ॥
नारंगद्वयकर्मरंगविलसत्प्रख्यातवृक्षोभ्दवा--।
न्यत्यम्लानि फलानि वातशमनान्युद्रिकक्तरक्तान्यपि ॥
पित्तश्लेष्मकराणि पाकगुरुकस्निग्धानि लालाकरा--
ण्यंतर्बाह्यमलातिशोधनकराण्यत्यंततीक्षणानिच ॥ ४३ ॥

भावार्थः--The Hindi commentary was not digitized.

बिल्वादिफलशाकगुण ।

बिल्वाश्मंतकशैलबिल्वकरवीगांगेरुकक्षीरिणाम् ।
जंबूतोरणतिंदुकातिवकुला राजादनं चंदनम् ॥
क्षुद्रारुष्करसत्परूषकुतुलक्यादिद्रुमाणां फला-
न्यत्यंतं मलसंग्रहाणि शिशिराण्युक्तानि पित्ते कफे ॥ ४४ ॥