98

बलारसायन ।

यत्नाद्बलामूलातुलां विशोष्य ।
धूलीकृतां शुद्धतनुः पलार्धम् ॥
नित्यं पिबेद्दुग्धविमिश्रितं त--।
ज्जीर्णे घृतक्षीरयुतान्नभुक्तिः ॥ ५० ॥

भावार्थः--The Hindi commentary was not digitized.

नागबलादि रसायन ।

पिबेत्तथा नागबलातिपूर्व--।
बलातिचूर्णं पयसा प्रभाते ॥
भवेद्विदार्याश्च पिबेन्मनुष्यो ।
महाबलायुष्ययुतो वपुष्मान् ॥ ५१ ॥

भावार्थः--The Hindi commentary was not digitized.

वाकुचीरसायन ।

गुडान्वितं वाकुचिबीजचूर्ण--।
मयोघटन्यस्तमतिप्रयत्नात् ॥
निधाय धान्ये भुवि सप्तरात्रं ।
व्यपेतदोषोऽक्षफलप्रमाणम् ॥ ५२ ॥
प्रभक्ष्य तच्छीतजलानुपानं ।
रसायनाहारविधानयुक्तः ॥
निरामयस्सर्वमनोहरांग--।
स्समाशतं जीवतिं सत्वयुक्तः ॥ ५३ ॥

भावार्थः--The Hindi commentary was not digitized.