143

औषधका उत्कृष्टप्रमाण ।

वयोबलशरीरदोषपरिवृद्धिभेदादपि ।
द्रवप्रवणता भवेद्गणनया गुरुद्रव्ययोः ॥
न च प्रमितिरूर्जिता कुडबषट्कतोन्या मता ।
तदर्धमिह पक्वतैलघृतयोः प्रमाणं परम् ॥ ५४ ॥

भावार्थः--The Hindi commentary was not digitized.

बस्तिदान क्रम ।

निपीड्य निजवामपार्श्वमिहजानुमात्रोच्छ्रिते ।
शयानमिति चातुरं प्रतिवदेद्भिषग्मंचके ॥
प्रवेशय गुदं स्वदक्षिणकरेण नेत्रं शनै--।
र्घृताक्तमुपसंहरन् स्वमुचितांघ्रिवामेतरम् ॥ ५५ ॥

भावार्थः--The Hindi commentary was not digitized.

प्रवेश्य शनकैस्सुखं प्रकटनेत्रनाडीमुखम् ।
प्रपीडयतु बस्तिमप्रचलितानुवंशस्थितिम् ॥
द्रवक्षयविदातुरं विगमनेत्रमाश्वागमात् ।
करेण करमाहरन्पदभवोत्कुटीकासनम् ॥ ५६ ॥

भावार्थः--The Hindi commentary was not digitized.