शिरोगत वायुकी चिकित्सा ।

शिरोगतमिहानिलं शिरसि तैलसंतर्पणै--।
र्विपक्ववरतैलनस्यविधिना जयेत्संततम् ॥
महौषधिशिरीषशिग्रुसुरदारुदार्वीयुतैः ।
करंजरवरमंजरीरुचकहिंगुकांजीरकैः ॥ ६६ ॥
प्रलेपनमपीह तैः कथितभेषजैर्वाचरे--।
द्विपक्वघनकोशधान्यकृतसोष्णसंस्वेदनैः ॥
यथोक्तमुपनाहनैस्सुखतरैश्शिरोबस्तिभि--।
र्जयेद्रुधिरमोक्षणैरनिलमुत्तमांगस्थितम् ॥ ६७ ॥

भावार्थः--The Hindi commentary was not digitized.