148

अवमर्ष नस्य ।

यद्यन्नस्यं तत्त्रिवारं प्रयोज्यं ।
यावद्द्वक्त्रं प्राप्नुयात्स्नेहबिंदुः ॥
तं चाप्याहुश्चावमर्षं विधिज्ञाः ।
रूक्षद्रव्यैर्यत्तदत्र द्विधा स्यात् ॥ ६९ ॥

भावार्थः--The Hindi commentary was not digitized.

अवपीडन नस्य ।

व्याध्यावपीडनमिति प्रवदंति नस्यं ।
श्लेष्मानिले मरिचनागरपिप्पलीनाम् ॥
कोशातकी मरिचशिग्व्रपमार्गबीज--।
सिंधूत्थचूर्णमुदकेन शिरोविरेकम् ॥ ७० ॥

भावार्थः--The Hindi commentary was not digitized.

नस्यं के लिये अपात्र

नस्येत्वेते वर्जनीया मनुष्याः ।
स्नाताःस्नातुं प्रार्थयन्भुक्तवताः ॥
अन्नक्षीणा गर्भिणी रक्तपित्ताः ।
श्वासैस्सद्यः पीनसेनाभिभूताः ॥ ७१ ॥