137

वमनगुण ।

प्रलापगुरुगात्रतां स्वरविभेदनिद्रोद्धतिं ।
मुखे विरसमग्निमांद्यमधिकास्यदुर्गधताम् ॥
विदाहहृदयामयान्कफनिषेककंठोत्कटं ।
व्यपोहति विषोल्वणं वमनमत्र संयोजितं ॥ ३५ ॥

भावार्थः--The Hindi commentary was not digitized.

वमनकेलिये अपात्र ।

न गुल्मतिमिरोर्ध्वरक्तविषमार्दिताक्षेपक--।
प्रमीढतरवृद्धपांडुगुदजांकुरोत्पीडितान् ॥
क्षतोदरविरूक्षितातिकृशगर्भविस्तंभक--।
क्रिमिप्रबलतुण्डबंधुरतरान्नरान्वामयेत् ॥ ३६ ॥

भावार्थः--The Hindi commentary was not digitized.

वमनापवाद ।

अजीर्णपरिपीडितानतिविषोल्वणश्लैष्मिका--।
नुरोगतमरुत्कृतप्रबलवेदनाव्यापृतान् ॥
नरानिह निवारितानपि विपक्वयष्टिर्जलैः ।
कणोग्रफलकल्पितैर्मृदुतरं तदा छर्दयेत् ॥ ३७ ॥

भावार्थः--The Hindi commentary was not digitized.

कटुत्रिकादिचूर्ण

कटुत्रिकविडंगहिंगुविडसैंधवैलाग्निकान् ।
सुवर्चलसुरेंद्रदारुकटुरोहिणीजीरकान् ॥