बस्तिनेत्रलक्षण ।

दृढातिमृदुचर्मनिर्मितनिरास्रवच्छागल--।
प्रमाणकुडबाष्टकद्रवमितोरुबस्त्यन्वितम् ॥
षडष्टगुणसंख्यया विरचितांगुलीभिः कृतं ।
त्रिनेत्रविधिलक्षणं शिशुकुमारयूनां क्रमात् ॥ ४८ ॥

भावार्थः--The Hindi commentary was not digitized.

तथैकनयरत्नभेदगणितांगुलीसंस्थिता--।
क्रमोन्नतसुकर्णिकान्यपि कनिष्ठिकानामिका ॥
स्वमध्यमवरांगुलात्मपरिणाहसंस्कारिता--।
न्यनिंद्यपशुबालधिप्रतिमवर्तुलान्यग्रतः ॥ ४९ ॥

भावार्थः--The Hindi commentary was not digitized.