169

लंघन व जलपान विधि ।

आनद्धदोषमखिलं स्तिमितांगयष्टि--।
मालोक्य लंघनबिधिं वितरेत्तृषार्त्तं ॥
तोयं पिवेत्कफमरुज्ज्वरपीडितांगः ।
सोष्णं सपित्तसहितः शृतशीतलं तु ॥ ६४ ॥

भावार्थः--The Hindi commentary was not digitized.

क्षुत्पीडितो यदि भवेन्मनुजो यवागूं ।
पीत्वा ज्वरप्रशमनं प्रतिसंविशेद्वा ॥
तद्वद्विलेप्यमपि यूषगणैः कदुष्णैः ।
संयोजयेज्ज्वरविकारनिराकरिष्णुः ॥ ६५ ॥

भावार्थः--The Hindi commentary was not digitized.

वातपित्तज्वर में पाचन ।

बिल्वाग्निमंथबृहतीद्वयपाटलीनां ।
क्वाथं पिबेदशिशिरं पवनज्वरार्त्तः ॥
काशेक्षुयष्टिमधुचंदनसारिवानां ।
शीतं कषायमिह पित्तविकारनिघ्नम् ॥ ६६ ॥

भावार्थः--The Hindi commentary was not digitized.

कफज्वर में पाचन व पक्वज्वरलक्षण ।

भार्ङीफलत्रयकटुत्रिकपक्वतोय--।
मुष्णं पिबेत्कफकृतज्वरपाचनार्थम् ॥