173
कार्पासबीजसितसर्षपबर्हिबर्है--।
र्धूपो ग्रहज्वरपिशाचविनाशहेतुः ॥ ७७ ॥

भावार्थः--The Hindi commentary was not digitized.

स्नेह व रूक्षोत्थित ज्वरचिकित्सा ।

स्नेहोत्थितेष्वहिमपेयचिलेप्ययूष--।
दूष्याद्धि रूक्षणविधिः कथितो ज्वरेषु ॥
स्नेहक्रियां तदनुरूपवरौषधाद्यां ।
संयोजयेदधिकरूक्षसमुद्भवेषु ॥ ७८ ॥

भावार्थः--The Hindi commentary was not digitized.

स्नेह व रूक्षोत्थित ज्वरोंमें वमनादि प्रयोग

स्नेहोद्भवेषु वमनं च विरेचनं स्या--।
द्रूक्षज्वरेषु विदधीत स बस्तिकार्यम् ॥
क्षीरं घृतं गुडयुतं सह पिप्पलीभिः ।
पेयं पुराणतररूक्षमहाज्वरेषु ॥ ७९ ॥

भावार्थः--The Hindi commentary was not digitized.

ज्वर मुक्त लक्षण

कांक्षां लघुक्षवथुमन्नरुचिं प्रसन्नं ।
सर्वेंद्रियाणि समशीतशरीरभावम् ॥
कण्डूमलप्रकृतिमुज्ज्वलितोदराग्निं ।
वीक्ष्यातुरं ज्वरविमुक्तमिति व्यवस्येत् ॥ ८० ॥

भावार्थः--The Hindi commentary was not digitized.