154

निंबादि क्वाथ

निंबाम्रमंबुदपटोलसुचंदनानां ।
क्वाथं गुडेन सहितं हिमशीतलं तम् ॥
पीत्वा सुखी भवति दाहतृषाभिभूतः ।
विस्फोटशोषपरितापमसूरिकासु ॥ १४ ॥

भावार्थः--The Hindi commentary was not digitized.

रक्तापत्तनिदान

वाताभिघातपरितापनिमित्ततो वा ।
पित्तप्रकोपवशतः पवनाभिभूतम् ॥
रक्तं प्लिहा यकृदुपाश्रितमाशु दुष्टं ।
कष्टं स्रंवेद्युगदूर्ध्वमधःक्रमाद्वा ॥ १५ ॥

भावार्थः--The Hindi commentary was not digitized.

रक्तपित्तका पूर्वरूप ।

तस्मिन्भविष्यति गुरूदरदाहकण्ठ--।
धूमायनारुचिबलक्षयरक्तगंध--।
निश्वासता च मनुजस्य भवंति पूर्व--।
रूपाणि शोधनमधः कुरु रक्तपित्ते ॥ १६ ॥

भावार्थः--The Hindi commentary was not digitized.