163
क्षीरं पिबेत् घृतगुडान्वितमीषदुष्णं ।
सर्वास्रपित्तपवनामयनाशनार्थम् ॥ ४३ ॥

भावार्थः--The Hindi commentary was not digitized.

शीतं कषायममलामलकांबुदांबुः--।
कुस्तुंबुरुक्वथितमिक्षुरसप्रगाढम् ॥
प्रातः पिबेत्त्रिफलया कृतमाज्यमिश्रं ।
विश्वामयप्रशमनं कुशलोपदिष्टम् ॥ ४४ ॥

भावार्थः--The Hindi commentary was not digitized.

गोधूमादिलेप ।

गोधूमशालितिलमुद्गमसूरमाषै--।
श्चूर्णीकृतैरपि पयोघृततैलपक्वैः ॥
यत्रातिरुग्भवति तत्र सपत्रबंधो ।
दोषोच्छ्रये कुरुत बस्तियुतं विरेकम् ॥ ४५ ॥

भावार्थः--The Hindi commentary was not digitized.

क्षीरद्रुमादितैल ।

आलेपनं घृतयुतं परिषेचनार्थं ।
क्षीरद्रुमांबुबलया परिपक्वतैलम् ॥
अभ्यंगबस्तिषु हितं च तथान्नपानं ।
गोधूमशालियवमुद्गपयोघृतानि ॥ ४६ ॥

भावार्थः--The Hindi commentary was not digitized.