183
पीत्बा सौवीरमिश्रं क्षपयति यकृदष्टीलगुल्माग्निमांद्यं ।
कासोर्ध्वश्वासशूलावमथुजठरकुक्ष्यामयार्शप्लिहादीन् ॥
तक्रेण श्लेष्मरोगान् घृतगुडपयसा पैत्तिकान् हंत्यशेषा--।
नुष्णांभस्तैलयुक्तं शमयति सहसा वातजातानमोघम् ॥ ६ ॥

भावार्थः--The Hindi commentary was not digitized.

कफनाशक व खदिरादि चूर्ण ।

निंबक्वाथं सुखोष्णं त्रिकटुकसहितं यः प्रपाय प्रभूतं ।
छर्दिं कृत्वा समांशं खदिरकुटजपाठापटोलानिशानाम् ॥
चूर्णं व्योषप्रगाढं प्रतिदिनमहिमेनांभसातत्पिबन्सः ।
कुष्ठार्शः कीटकच्छून् शमयति कफसंभूतमातंकजातम् ॥ ७ ॥

भावार्थः--The Hindi commentary was not digitized.

व्योषादि चूर्णचतुष्क ।

व्योषं वा मातुलुंगोद्भवरससहितं सैंधवाढ्यं समांशं ।
क्षारं वा मुष्कभस्मोदकपरिगलितं पक्वमारक्तचूर्णं ॥
चूर्णं गोमूत्रपीतं समधृतमसकृत्त्रैफलं मार्कवं वा ।
श्लेष्मव्याधीनशेषान् क्षपयति बहुमूत्रामयानप्रमेयान् ॥ ८ ॥

भावार्थः--The Hindi commentary was not digitized.