191

अथैकादशः परिच्छेदः

महामयाधिकारः ।

मंगलाचरण व प्रतिज्ञा

श्रियामधीशं परमेश्वरं जिनं । प्रमाणनिक्षेपनयप्रवादिनम् ॥
प्रणम्य सर्वामयलक्षैणस्सह । प्रवक्ष्यते सिद्धचिकित्सितं क्रमात् ॥ १ ॥

भावार्थः--The Hindi commentary was not digitized.

प्रतिज्ञा

न कश्चिदप्यस्ति विकारसंभवो । विना समस्तैरिह दोषकारणैः ॥
तथापि नामाकृतिलक्षणेक्षितानेशषरोगान्सचिकित्सितान् ब्रुवे ॥ २ ॥

भावार्थः--The Hindi commentary was not digitized.

वर्णनाक्रम

महामयानादित एव लक्षणै--स्सरिष्टवर्गैरपि तत्क्रियाक्रमैः ।
ततः परं क्षुद्रुरुजागणानथ । ब्रवीमि शालाक्यविषौषधैस्सह ॥ ३ ॥

भावार्थः--The Hindi commentary was not digitized.

महामय संज्ञा ।

महामया इत्यखिलामयाधिकाः । प्रमेहकुष्ठोदरदुष्टवातजः ॥
समूढगर्भं गुदजांकुराश्मरी । भगंदरं चाहुरशेषवेदिनः ॥ ४ ॥

भावार्थः--The Hindi commentary was not digitized.