209

रक्त व मांसगत कुष्ठ चिकित्सा ।

रक्ताश्रिते पूर्वमुदाहृतानि । रक्तस्य मोक्षणकषायनिषेवणं च ॥
मांसस्थिते पूर्वकृतानि कृत्वा । पश्चान्महाविविधभेषजयोगसिद्धम् ॥ ८३ ॥

भावार्थः--The Hindi commentary was not digitized.

मेदोऽस्थ्यादिगतकुष्ठ चिकित्सा ।

मेदोगतं कुष्ठमिहातिकष्टं । याप्यं भवेदधिकभेषजसंविधानैः ।
अन्यद्भिषग्भिः परिवर्जनीयम् । यत्पंचकर्मगतिमप्यधिगम्य याति ॥ ८४ ॥

भावार्थः--The Hindi commentary was not digitized.

त्रिदोषकुष्ठचिकित्सा ।

दोषत्रयोद्भूतसमस्तकुष्ठ--दर्पापहैर्विविधभेषजसंविधानैः ॥
पक्वं घृतं वापि सुतैलयेतत् । पीत्वातुरस्तनुविशोधनमेव कार्यम् ॥ ८५ ॥

भावार्थः--The Hindi commentary was not digitized.

ज्ञात्वा शिरामोक्षणमत्र कृत्वा । योगानिमानखिलकुष्ठहरान्विदध्यात् ।
दन्तीं द्रवंतीं त्रिवृतं हरिद्रां । कुष्टं वचां कटुकरोहिणिकां सपाठाम् ॥ ८६ ॥
भल्लातकां वल्गुजबीजयुक्तां निंबा--स्थिमज्जसहितां सतिलां समुस्ताम् ।
पथ्याक्षधात्रीसविडंग नीली--मूलानि भृंगरजसारपुनर्नवानि ॥ ८७ ॥
एतानि सर्वाणि विशोषितानि । सम्यक्तुलासमधृतानि विचूर्णितानि ।
निंवासनारग्वधधावनीनां । क्वाथेन सम्यक्परिभावितानि ॥ ८८ ॥
ब्राम्हीरसेनापि पुनः पुनश्च । संभावितानि सकलं बदरप्रमाणात् ॥
आरभ्य तद्यावदिहाक्षमात्रं । खादेत्ततस्सुविहिताक्षपरिप्रमाणं ॥ ८९ ॥
कुष्ठानि मेहानखिलोदराणि । दुर्नामकान्कृमिभगंदरदुष्टनाडीः ॥
ग्रंथीन् सशोफानखिलामयान--प्येतद्धरेस्सततमेव निषेव्यमाणम् ॥ ९० ॥