220

भावार्थः--The Hindi commentary was not digitized.

उदररोग के साधारण लक्षण ।

सदाहमूर्च्छोदरपूरणाग्नि । मरुत्पुरीषातिविरोधनानि ॥
सशोफकार्श्यांगनिपीडनानि । भवंति सर्वाणि महोदराणि ॥ १३८ ॥

भावार्थः--The Hindi commentary was not digitized.

असाध्योदर ।

जलोदराण्येव भवंति सर्वा--ण्यसाध्यरूपाण्यवसानकाले ।
तदाभिषक्तानि विवर्जयेत्तत् । प्रबद्धसंस्राव्युदराणि चापि ॥ १३९ ॥

भावार्थः--The Hindi commentary was not digitized.

कृच्छ्रसाध्योदर ।

अथावशिष्टानि महोदराणि । सुकृच्छ्रसाध्यानि भवंति तानि ॥
भिषक्प्रतिक्रम्य यथानुरूपं । चिकित्सितं तत्र करोति नित्यम् ॥ १४० ॥

भावार्थः--The Hindi commentary was not digitized.

भैषजशस्त्रसाध्योदरों के पृथक्वरण ।

तदर्धमप्यष्टमहोदरेषु । वरौषधैस्साध्यमथापरार्धम् ॥
सशस्त्रसाध्यं सकलानिकालाद्भवंति शस्त्रौषधसाधनानि ॥ १४१ ॥

भावार्थः--The Hindi commentary was not digitized.