225

मूत्रवर्तिका ।

समस्तसंशोधनभेषजैस्समैः । कटुप्रकारैर्लवणैर्गवां जलैः ॥
महातरुक्षीरयुतैस्सुसाधितै--। र्महामयघ्ना वरमूत्रवर्तिका ॥ १६२ ॥

भावार्थः--The Hindi commentary was not digitized.

द्वितीय वर्तिका ।

संशोधनद्रव्ययुतैस्सुसर्षपै--। स्ससैंधवक्षारगणानुमिश्रितैः ॥
कटुत्रिकै मूत्रफलाम्लेपषितै--। र्विधीयते वर्तिरियं महोदरे ॥ १६३ ॥

भावार्थः--The Hindi commentary was not digitized.

वर्तिका प्रयोगविधि ।

गुदे विलिप्ते तिलतैलसैंधवैः । प्रलिप्तवर्तिं च विधाय यत्नतः ॥
जयेन्महानाहमिहोदराश्रितान् । क्रिमीन्मरुन्मूत्रपुरीषरोधनम् ॥ १६४ ॥

भावार्थः--The Hindi commentary was not digitized.

दूष्योदर चिकित्सा ।

तदाशु दूष्योदरिणं परित्यजे--द्विषाणि वा सेवितुमस्य दापयेत् ॥
कदाचिदेवाशु च रोगनिवृति--र्भवेत्कदाचिन्मरणं यथासुखम् ॥ १६५ ॥