194

जालिनी लक्षण ।

समांसनाडीचयजालकावृता । महाशयात्यर्तिसतोदनान्विता ॥
सुस्निग्धसंस्रावि ससूक्ष्मरंध्रका । स्तब्धा सजालिन्यपि कीर्त्यते ततः ॥

भावार्थः--The Hindi commentary was not digitized.

पुत्रिणी, कच्छपिका, मसूरिका लक्षण ।

ससूक्ष्मकाभिः पिटकाभिरन्विता । प्रवक्ष्यते सा महती सपुत्रिणी ।
महासमूलातिघनार्तिसंयुता । सकच्छपापृष्ठनिभातितोदना ॥ १५ ॥
सदापि संश्लक्ष्णगुणातिखेदना । निगद्यते कच्छपिकापि पण्डितैः ।
मसूरकाकारवरप्रमाणा मनाक् सतोदा च मसूरिकोक्ता ॥ १६ ॥

भावार्थः--The Hindi commentary was not digitized.

विदारी, विद्रधि, विनताका लक्षण ।

विदारिका कंदठोरवृत्तता । विदारिका वेदनया समन्विता ।
सविद्रधिः पंचविधः प्रकल्पितः । समस्तदोषैरपि कारितैः पुरा ॥ १७ ॥
सवर्णकः शीघ्रविदाहितायास्सविद्रधिश्चेद्विविधो मयोदितः ।
उन्नम्य तीव्रैर्दहति त्वचं सां स्फोटैर्वृता कृष्णतरातिरक्ता ॥ १८ ॥
तृण्मोहसंजूर्तिकरी सदाहा भूयिष्ठकष्टाप्यलजी समुक्ता ।
पृष्ठोदराद्यन्यतरप्रसिद्धाधिस्थानभूता महती सतोदा ॥ १९ ॥
गाढातिरुक्क्लेदयुता सनीला । संकल्पितेयं विनता विराजिता ॥
त्रिदोषजास्सर्वगुणास्समस्ता--स्त्रिदोषलक्ष्मांकितवर्णयुक्ता ॥ २० ॥

भावार्थः--The Hindi commentary was not digitized.