199

त्रिफला क्वाथ ।

फलत्रिकक्वाथघृतं शिलाजतु । प्रपाय मेहानखिलानशेषतः ॥
जयेत्प्रमेहान् सकलैरुपद्रवैः । सह प्रतीतान् पिटकाभिरन्वितान् ॥ ३९ ॥

भावार्थः--The Hindi commentary was not digitized.

प्रमेहीके लि+ए विहार ।

सदा श्रमाभ्यासपरो नरो भवेदशेषमेहानपहर्तुमिच्छया ।
गजाश्वरोहैरखिलायुधक्रम--क्रियाविशेषैः परिधावनादिभिः ॥ ४० ॥

भावार्थः--The Hindi commentary was not digitized.

कुलीनको प्रमेहजयार्थ क्रियाविशेष ।

कुलीनमार्तं धनहीनमद्भुतं । प्रमेहिनं साधु वदेदतिक्रमात् ।
मडंबघोषाकरपट्टणादिकान् । विहृत्य नित्यं व्रज तीर्थयात्रया ॥ ४१ ॥

भावार्थः--The Hindi commentary was not digitized.

प्रमेहजयार्थ नीचकुलोत्पन्न का क्रियाविशेष ।

कुलेतरः कूपतटाकवापिकाः । खनेत्तथा गां परिपालयेत्सदा ।
दिवैकवेलाप्रगृहतिभैक्षभु--ग्जलं पिबेद्गोगणपानमानितम् ॥ ४२ ॥

भावार्थः--The Hindi commentary was not digitized.

पिटिकोत्पत्ति ।

यथोक्तमार्गाचरणौषधादिभिः । क्रियाविहीनस्य नरस्य दुस्सहाः ।
अधःशरीरे विविधा विशेषतो । भवन्त्यथोक्ताः पिटिकाः प्रमेहिणः ॥ ४३ ॥