201

रोपण औषधियां ।

तिलाः सलोध्रा मधुकार्जुनत्वचः । पलाशदुग्धांघ्रिपसूतपल्लवाः ।
कदंबजम्ब्वाम्रकपित्थतिंदुकाः । समंग एते व्रणरोपणे हिताः ॥ ४८ ॥

भावार्थः--The Hindi commentary was not digitized.

रोपण वर्त्तिका ।

सवज्रवृक्षार्ककुरंटकोद्भवैः । पयोभिरात्तैस्सकरंजलांगलैः ।
ससैंधवांकोलशिलान्वितैः कृता । निहंति वर्तिर्व्रणदुष्टनाडिकाः ॥ ४९ ॥

भावार्थः--The Hindi commentary was not digitized.

सद्योव्रण चिकित्सा ।

विशोध्य सद्यो व्रणवक्त्रपूरणं । घृतेन संरोपणकल्कितेन वा ॥
सुपिष्टयष्टीमधुकान्वितेन वा । क्षतोष्मणः संहरणार्थमिष्यते ॥ ५० ॥

भावार्थः--The Hindi commentary was not digitized.

बंधनक्रिया ।

सपत्रदानं परिवेष्टयेद्व्रणं । सुसूक्ष्मवस्त्रावयवेन यत्नतः ।
स्वदोषदेहव्रणकालभावतः सदैव बद्धं समुपचारेद्भिषक् ॥ ५१ ॥

भावार्थः--The Hindi commentary was not digitized.

बंधनपश्चात्क्रिया ।

ततो द्वितीयेऽहनि बंधमोक्षणं । विधाय पूयं विनिवर्स्य पीडनैः ।
कषायधौतं व्रणमौषधैः पुन--र्विधाय बंधं विदधीत पूर्ववत् ॥ ५२ ॥