245

भावार्थः--The Hindi commentary was not digitized.

बलातैल ।

क्वाथ एव च वलांध्रिविपक्व--। ष्पड्गुणस्सदृशदुग्धविमिश्रः ॥
कोलबिल्वबृहतीद्वयटुंटू--। काग्निमंथयवहस्तकुलुत्थैः ॥ ६४ ॥
विश्रुतैः कृतकषायविभागैः । तैलभागसहितास्तु समस्ताः ॥
तच्चतुर्दशमहाढकभागं । पाचयेदधिकभेषजकल्कैः ॥ ६५ ॥
अष्टवर्गमधुरौषधयुक्तैः । क्षीरिका मधुकचंदनमंजि--॥
ष्ठाश्वगंधसुरदारुशताव--। र्यंघ्रिकुष्ठसरलस्वगरैला ॥ ६६ ॥
सारिवासुरससर्ज्जरसाख्ये । पत्रशैलजजटागुरुगंधो--॥
ग्राख्यसैंधवयुतैः परिपिष्टैः । कल्कितैस्समशृतैस्सहपक्वम् ॥ ६७ ॥
साधुसिद्धमवतार्य सुतैलं । राजते कनकमृण्मयकुंभे ॥
सन्निधाय विदधीत सदेदं । राजराजसदृशां महतां च ॥ ६८ ॥
पाननस्यपरिषेकविशेषा--। लेपबस्तिषु विधानविधिज्ञैः ॥
योजितं पवनपित्तकफोत्था--। न्नाशयेदखिलरोगसमूहान् ॥ ६९ ॥

भावार्थः--The Hindi commentary was not digitized.