252

भावार्थः--The Hindi commentary was not digitized.

मुष्ककादिक्षार ।

कृष्णमुष्ककतरुं परिगृह्यो--। त्पाट्य शुष्कमवदह्य सुभस्म ॥
द्रोणमिश्रितजलाढकषट्कं । क्वाथयेन्महति निर्मलपात्रे ॥ ९७ ॥
यावदच्छमतिरक्तसुतीक्ष्णं । तावदुत्क्वथितमाशुविगाल्यो--॥
द्धट्टयन् परिपचेदथ दर्व्या । यद्यथा द्रवघनं न भवेत्तत् ॥ ९८ ॥
शंखनाभिमवदह्य सुतीक्ष्णं । शर्करामपि निषिच्य यथावत् ॥
क्षारतोयपरिपेषितपूति--। काग्निकं प्रतिनिवापितमेतत् ॥ ९९ ॥
साधुपात्रनिहितं परिगृह्या--। भ्यंतरांकुरमहोदरकीले ॥
ग्रंथिगुल्मयकृति प्रपिबेत्त । द्बाह्यजं प्रति विलेपनमिष्ठम् ॥ १०० ॥

भावार्थः--The Hindi commentary was not digitized.

अर्श यंत्र विधान ।

गोस्तनप्रतिमयंत्रमिहद्वि--। च्छिद्रमंगुलिचतुष्कसमानम् ॥
अंगुलीप्रवरपंचकवृत्तम् । कारयेद्रजतकांचनताम्रैः ॥ १०१ ॥
यंत्रवक्त्रमवलोकनिमित्तं । स्यादिहांगुलिमितोन्नमितोष्ठं ॥
त्र्यंगुलायतमिहांगुलिदेशं । पार्श्वतो विवरमंकुरकार्ये ॥ १०२ ॥