अर्शपातन विधि ।

स्नेहनाद्युपकृतं गुदकीलैः । पीडितं वालिनमन्यतरस्यो--॥
त्संगसंनिहितपूर्वशरीरं । भुक्तवंतमिह संवृतदेशे ॥ १०३ ॥
व्यभ्रसौम्यसमये समकायो--। त्थानशायितगुदप्रतिसूर्यम् ॥
शाटकेन गुदसंधिनिबद्धम् । संगृहीतमपि कृत्य सुहृद्भिः ॥ १०४ ॥
तस्य पायुनि यथा सुखमाज्या--। लिप्तयंत्रमुपधाय घृताक्ते ॥
यंत्र पार्श्वविवरागतमर्श--। पातकेन पिचुनाथ विमृज्य ॥ १०५ ॥
संविलोक्य बलितेन गृहीत्वा । कर्तरीनिहितशस्त्रमुखेन ॥
छर्दयेदपि दहेदचिरार्तः । शोणितं स्थितिविधाननिमित्तम् ॥ १०६ ॥
कूर्चकेन परिगृह्य विपक्व--। क्षारमेव परिलिप्य यथार्शः ॥
पातयेन्निहितयंत्रमुखं त--। द्वाकृतं करतलेन पिधाय ॥ १०७ ॥
पक्वजांबवसमप्रतिभासं । मानमीषदवसन्नमदार्शः ॥
प्रेक्ष्य दुग्धजलमस्तुसधान्या--म्लैस्सुधौतमसकृद्धिमशीतैः ॥ १०८ ॥
सर्पिषा मधुकचंदनकल्का--। लेपनैः प्रशमयेदतितीव्रम् ॥
क्षारदाहमपनीय च यंत्रम् । स्नापयेत्तमपि शीतलतोयैः ॥ १०९ ॥
तन्निवातसुखशीतलगेहे । सन्निवेश्य घृतदुग्धविमिश्रम् ॥
शालिषाष्ठिकयचाद्युचितान्नं । भोजयेत्तदनुरूपकशाकैः ॥ ११० ॥
सप्त सप्त दिवसात्तत्त+एकै--। कांकुरक्षतमिहाचरणीयम् ॥
सावशेषमपि तत्पुनरेवं । संदहेत्कथितमार्गविधानात् ॥ १११ ॥

भावार्थः--The Hindi commentary was not digitized.

254

भावार्थः--The Hindi commentary was not digitized.

255