236
तत्सुपात्रनिहितं प्रपिधाया--रण्यगोमयमहाग्निविदग्धम् ॥
पत्रनामलवणं पवनघ्नम् । ग्रंथिगुल्मकफशोफविनाशम् ॥ २४ ॥

भावार्थः--The Hindi commentary was not digitized.

क्वाथ सिद्धलवण ।

नक्तमालपिचुंमदपटोला--पाटलीनृपतरूत्रिफलाग्नि--॥
क्वाथसिद्धलवणं स्नुहिदुग्धो--न्मिश्रितं प्रशमयेदुदरादीन् ॥ २५ ॥

भावार्थः--The Hindi commentary was not digitized.

कल्याण लवण ।

पारिभद्रकुटजार्कमहावृ--क्षापमार्गनिचुलाग्निपलाशान् ।
शिग्रुशाकबृहतीद्वयनादे--याटरूषकसपाटलबिल्वान् ॥ २६ ॥
नक्तमालयुगलामलचव्या--रुष्करांघ्रिपसमूलपलाशान् ।
बैजयंत्युपयुतान् लवणेनो--न्मिश्रितान्कथितमार्गविदग्धान् ॥ २७ ॥
षड्गुणोदकविमिश्रितपक्वा--न्गालितानतिघनामलवस्त्रे ।
तद्द्रवं परिपचेत्प्रतिवापै--हिंगुजीरकमहौषधचव्यैः ॥ २८ ॥
चित्रकैर्मरिचदीप्यकमिश्रैः । पिप्पलीत्रिकयुतैश्च समांशैः ।
चूर्णितैर्बहलपक्वमिदं कल्याणकाख्यलवणं पवनघ्नम् ॥ २९ ॥

भावार्थः--The Hindi commentary was not digitized.