वार्तिकाश्मरीलक्षण ।

बलास एवाधिकवातसंयुतो । यथोक्तमार्गादभिवृद्धिमागतः ॥
करोति रूक्षासितकण्डकाचितां । कदंबपुष्पप्रतिमामथाश्मरीम् ॥ १० ॥
तया च बस्त्याननरोधतो नरो । निरुद्धमूत्रो बहुवेदनाकुलः ॥
असह्यदुःखश्शयनासनादिषु । प्रतिक्रियाभावतया स धावति ॥ ११ ॥
स नाभिमेढ्रं परिमर्दयन्मुहुः । गुदेंऽगुलिं निक्षिपति प्रपीडया ॥
स्वदंतयत्रं प्रविधाय निश्चलं । पतत्यसौ भुग्नतनुर्धरातले ॥ १२ ॥

भावार्थः--The Hindi commentary was not digitized.

264