264

बालाश्मरी ।

दिवातिनिद्रालुतया प्रणालिका--। सुसूक्ष्मतः स्निग्धमनोज्ञभोजनात् ॥
कफोल्वणाद्दोषकृताश्मरीगणा । भवंति बालेषु यथोक्तवेदनाः ॥ १३ ॥

भावार्थः--The Hindi commentary was not digitized.

बालकोत्पन्नाश्मरीका सुखसाध्यत्व ।

अथाल्पसत्वादतियंत्रयोग्यत--। स्तथाल्पबस्तेरपि चाल्पमासंतः ॥
सदैव बालेषु यदश्मरीसुखा--। द्गृहीतुमाहर्तुमतीव शक्यते ॥ १४ ॥

भावार्थः--The Hindi commentary was not digitized.

शुक्राश्मरी संप्राप्ति ।

महत्सु शुक्राश्मरिको भवेत्स्वयं । विनष्टमार्गो विहतो निरोधतः ॥
प्रविश्य मुस्कांतरमाशु शोफकृत् । स्वमेव शुक्रो निरुणद्धि सर्वदा ॥ १५ ॥

भावार्थः--The Hindi commentary was not digitized.

शुक्राश्मरी लक्षण ।

विलीयते तत्र विमर्दितः पुनः । विवर्धते तत्क्षणमात्रसंचितम् ॥
कुमार्गगो नारकवन्महातनुं । स एव शुक्रः कुरुतेऽश्मरी नृणाम् ॥ १६ ॥

भावार्थः--The Hindi commentary was not digitized.