269

पुरुषयोग्यनेत्रलक्षण ।

प्रमाणतोऽष्टांगुल नेत्रमायतं । सुवृत्तसुस्निग्धसुरूपसंयुतम् ॥
सुतारनिर्मापितमूलकार्णिकं । सुमालतीवृन्तसमं तु सर्वथा ॥ ३६ ॥

भावार्थः--The Hindi commentary was not digitized.

कन्या व स्त्रीयोग्य नेत्र लक्षण ।

तदर्धभागं सबृहत्सुकर्णिकं । सुबस्तियुक्तं प्रमादाहितं सदा ॥
तथांगुलीयुग्मनिविष्टकर्णिकं । तदेव कन्याजननेत्रमुच्यते ॥ ३७ ॥

भावार्थः--The Hindi commentary was not digitized.

द्रवप्रमाण ।

द्रवप्रमाणं प्रसृतं विधाय तत् । कषायतैलाज्यगुणेषु कस्यचित् ॥
प्रयोज्यतां बस्तिमर्थेदुलिप्तया--। शलाकया मेढ्रमुखं विशोध्य तम् ॥ ३८ ॥

भावार्थः--The Hindi commentary was not digitized.

उत्तरबस्तिसे पूर्वपश्चाद्विधेयविधि ।

प्रपीडयेत्तु प्रथमं विधानवित् । नियोजयेदुत्तरबस्तिमूर्जिताम् ॥
ततोऽपराण्हे पयसा च भोजयेत् । अतो विधास्ये वरबस्तिसत्क्रियाम् ॥ ३९ ॥