323

उपजिह्वा चिकित्सा.

तमत्र जिह्वालसवत्प्रसारये--। च्छिरोविरेकैः कवलग्रहैस्सदा ॥
तथात्र पंचादशदंतमूलजान् । सलक्षणान् साधुचिकित्सितान्ब्रुवे ॥ ६५ ॥

भावार्थः--The Hindi commentary was not digitized.

सीतोद लक्षण व चिकित्सा.

स्रवेदकस्मादिह दंतवेष्टतः । कफास्रदोषक्षुभितातिशोणितम् ॥
गदोत्र शीताद इति प्रकीर्तित--। स्तमस्रमोक्षैः कवलैरुपाचरेत् ॥ ६६ ॥

भावार्थः--The Hindi commentary was not digitized.

दंतपुप्पट लक्षण व चिकित्सा.

यदा तु वृत्तः श्वयथुः प्रजायते । सदंतमूलेषु स दंतपुप्पटम् ।
कफासृगुत्थं तमुपाचरेद्भिषक् । सदामपक्वक्रमतो विचक्षणः ॥ ६७ ॥

भावार्थः--The Hindi commentary was not digitized.

दंतवेष्टलक्षण व चिकित्सा.

सपूतिरक्तं स्रंवतीह वेष्टतो । भवंति दंताश्च चलास्समंततः ॥
सदंतवेष्टो भवतीह नामतः । स्वदुष्टरक्तस्रवणैः प्रसाध्यते ॥ ६८ ॥
38 39
  1. सीतोद इति पाठांतरं ॥

  2. द्रंतपुष्पकमिति पाठांतरम् ।