311

भावार्थः--The Hindi commentary was not digitized.

कर्णकण्डू, कर्णगूथ, कर्णप्रतिनादके लक्षण.

कफेन कण्डूः श्रवणेषु जायते । स एव शुष्को भवतीह गूथकः ॥
स गूथ एव द्रवतां गतः पुनः । पिधाय कर्णं प्रतिनादमावहेत् ॥ १५ ॥

भावार्थः--The Hindi commentary was not digitized.

कर्णपाक, विद्रधि, शोथ, अर्शका लक्षण.

सुपक्वभिन्नादिकविद्रधेर्वशात् । स कर्णपाकाख्यमहामयो भवेत् ॥
अथापरे चार्बुदशोफविद्रधि--। प्रधानदुर्नामगणा भवंत्यपि ॥ १६ ॥

भावार्थः--The Hindi commentary was not digitized.

वातज कर्णव्याधिचिकित्सा.

अतःपरं कर्णगतामयेषु तत् । चिकित्सितं दोषवशाद्विधीयते ॥
अथानिलोत्थेष्वनिलध्नभेषजै--। र्विपक्वतैलैरहिमैर्निषेचयेत् ॥ १७ ॥

भावार्थः--The Hindi commentary was not digitized.

कर्ण स्वेदन.

निषिक्तकर्णं पुनरुष्णतापनैः । प्रतापयेद्धान्यगणेष्ठिकादिभिः ॥
प्रणालिकास्वेदनमेव वा हितं । सपत्रभाण्डेऽग्नियुते निधापयेत् ॥ १८ ॥

भावार्थः--The Hindi commentary was not digitized.