358

भावार्थः--The Hindi commentary was not digitized.

प्रथमपटलगतंदोषलक्षण ।

यदा तु दोषाः प्रथमे व्यवस्थिताः । भवंति दृष्ट्याः पटले तदा नरः ॥
न पश्यतीहाखिलवस्तु विरतृतं । विशिष्टमस्पष्टरं स्वकष्टतः ॥ २११ ॥

भावार्थः--The Hindi commentary was not digitized.

द्वितीयपटलगतदोषलक्षण.

नरस्य दृष्टिः परिविह्वला भवेत् । सदैव सुखीसुषिरं न पश्यति ॥
प्रयत्नतो वाप्यथ दोषसंचये । द्वितीयमेवं पटलं गते सति ॥ २१२ ॥

भावार्थः--The Hindi commentary was not digitized.

तृतीयपटलगतदोषलक्षण.

अधो न पश्यत्यथ चोर्ध्वमीक्षते । तृतीयमेवं पटलं गतेऽखिलान् ॥
स केशपाशान्मशकान्समक्षिकान् । सजालकान् पश्यति दोषसंचये ॥ २१३ ॥

भावार्थः--The Hindi commentary was not digitized.

नक्तांध्य लक्षण.

त्रिषु--स्थितोऽल्पः पटलेषु दोषो । नरस्य नक्तांध्यमिहावहत्यलम् ॥
दिवाकरेणानुगृहीतलोचनो । दिवा स पश्येत् कफतुच्छभावतः ॥ २१४ ॥

भावार्थः--The Hindi commentary was not digitized.