कफज असाध्य, साध्यरोग

स्रावोऽयं कफजनितो ह्यसाध्यरूपो ।
याप्यः स्यात्कफकृत एव काचसंज्ञः ॥
स्यंदस्तद्विहितनिजाधिमंथः ।
श्लेष्मादिग्रथितविदग्धदृष्टिनामा ॥ २३५ ॥
पोथक्या लगणयुताः क्रिमिप्रधाना ।
ग्रंथिः स्यात् परियुताप्रवर्त्मपिष्टः ॥
शुक्लार्मप्रबलकफोपनाहयुक्ताः ।
श्लेष्मोत्था दश च तथैक एव साध्यः ॥ २३६ ॥

भावार्थः--The Hindi commentary was not digitized.