364
काचाख्योप्यधिकृतनीलिसंज्ञिको ।
यो म्लायी परिसहितश्च यापनीयः ॥ २३३ ॥

भावार्थः--The Hindi commentary was not digitized.

पित्तजसाध्य रोग.

स्यंदाख्योऽप्यभिहितस्तदाधिमंथः ।
शुक्त्यम्लाध्युषितविदग्धदृष्टिनाम्ना ॥
धूमादिप्रकटितदर्शिना च सार्धं ।
साध्यास्ते षडपि च पित्तजा विकाराः ॥ २३४ ॥

भावार्थः--The Hindi commentary was not digitized.

कफज असाध्य, साध्यरोग

स्रावोऽयं कफजनितो ह्यसाध्यरूपो ।
याप्यः स्यात्कफकृत एव काचसंज्ञः ॥
स्यंदस्तद्विहितनिजाधिमंथः ।
श्लेष्मादिग्रथितविदग्धदृष्टिनामा ॥ २३५ ॥
पोथक्या लगणयुताः क्रिमिप्रधाना ।
ग्रंथिः स्यात् परियुताप्रवर्त्मपिष्टः ॥
शुक्लार्मप्रबलकफोपनाहयुक्ताः ।
श्लेष्मोत्था दश च तथैक एव साध्यः ॥ २३६ ॥

भावार्थः--The Hindi commentary was not digitized.

रक्तज असाध्य, याप्य, साध्यरोगलक्षण.

रक्तार्शो व्रणयुतशुक्लमीरितोऽ ।
सृक्स्रावोऽजकजातमसाध्यरूपरोगाः ॥