371
निर्यासमेव नरकिंशुकवृक्षजातं ।
क्षीरेण पिष्टमिह शर्करया विमिश्रम् ॥ २५८ ॥

अम्लाध्युषित चिकित्सा.

आश्च्योतनं निखिलपित्तकृताक्षिरोगा--।
म्लाबाधिकाध्युषितमप्युपहंति सद्यः ॥
तोयं तथा त्रिफलया श्रृतमाज्यमिश्रं ।
पेयं भवेद्धतमलं न तु शुक्तिकायां ॥ २५९ ॥

भावार्थः--The Hindi commentary was not digitized.

शुक्तिरोग में अंजन.

शीतांजनान्यपि च शुक्तिनिवारणार्थं ।
मुक्ताफलस्फटिकविद्रुमशंखशुक्ति--॥
सत्कांचनं रजतचंदनशर्कराढ्यं ।
संयोजयेदिदमजापयसा सुपिष्टम् ॥ २६० ॥

भावार्थः--The Hindi commentary was not digitized.

कफजनेत्ररोगचिकित्साधिकारः ।

धूमदर्शी व सर्व श्लेष्मजनेत्ररोगोंकी चिकित्सा.

गव्यं घृतं सततमेव पिबेच्च नस्यं ।
तेनैव साधु विदधीत स धूमदर्शी ॥
श्लेष्मामयानपि च रूक्षकटुप्रयोगैः ।
शीघ्रं जयेदधिकतीक्ष्णशिरोविरेकैः ॥ २६१ ॥