373

कण्डूनाशक+अंजन.

नादेयशुक्लमरिचानि मनःशिलानि ।
जातीप्रवालकुसुमानि फलाम्लपिष्टा--॥
न्याशोष्य वर्तिमसकृन्नयनांजनेन ।
कंडूं निहंति कफजानखिलान्विकारान् ॥ २६५ ॥

भावार्थः--The Hindi commentary was not digitized.

रक्तजनेत्ररोगचिकित्साधिकारः ।

सर्वनेत्ररोगचिकित्सा.

रक्तोत्थितानखिलनेत्रगतान्विकारान् ।
ष्यंदाधिमंथबहुरक्तशिराप्रसूतान् ॥
सर्पिःप्रलेपनमृदून्सहसा शिराणां ।
मोक्षैर्जयेदपि च देहशिरोविरेकैः ॥ २६६ ॥

भावार्थः--The Hindi commentary was not digitized.

पीडायुक्तरक्तजनेत्ररोगचिकित्सा.

आश्च्योतनांजनसनस्यपुटप्रपाक--।
धूमाक्षितर्पणविलेपनतत्प्रदेहान् ॥
सुस्निग्धशीतलगणैः सुगुडैर्नियुक्तं ।
सोष्णैर्जयेद्यदि च तीव्ररुजासुतीव्रान् ॥ २६७ ॥

भावार्थः--The Hindi commentary was not digitized.