376
संस्वेदिताग्निशितशस्त्रमुखेन यत्नात् ।
तान्साधयेदभिहिताखिलतप्तयोगैः ॥ २७४ ॥

भावार्थः--The Hindi commentary was not digitized.

लेखन आदिशस्त्रकर्म.

निर्भज्य वर्त्म पिचुना परिमृज्य यत्नात् ।
लेख्यान्विलिख्य लवणैः प्रतिसारयेत्तत् ॥
भेद्यान्विभिद्य बलिशैः परिसंगृहीतान् ।
छेद्यानपांगमनुसंश्रितसर्वभावान् ॥ २७५ ॥
छिद्यात्सिराश्च परिवेध्य यथानुरूपं ।
वेध्यान् जयेद्विदितवेदविदां वरिष्ठः ॥
पश्चादपि प्रकटदोषविशेषयुक्त्या ।
सद्भेषजैरुपचरेदखिलांजनाद्यैः ॥ २७६ ॥

भावार्थः--The Hindi commentary was not digitized.

पक्ष्मकोपचिकित्सा.

पक्ष्मप्रकोपमपि साधु निपीड्यनालै--।
रुद्बंधयेत् ग्रथितचारुललाटपट्टं ॥
पक्ष्माभिवृद्धिमवलोक्य सुखाय धीमान् ।
आमोचयेदखिलनालकृतप्रबंधान् ॥ २७७ ॥

भावार्थः--The Hindi commentary was not digitized.