377

पक्षप्रकोप में लेखन आदिकर्म.

संलिख्य तापहरणं दहनेन दग्ध्वा ।
चोत्पाट्य वा प्रशमयेदिह पक्ष्मकोपम् ॥
दृष्टिप्रसादजनकैरपि दृष्टिरोगान् ।
साध्यान्विचार्य सततं समुपक्रमेत ॥ २७८ ॥

भावार्थः--The Hindi commentary was not digitized.

कफजलिंग नाशमें शस्त्रकर्म.

तल्लिंगनाशमपि तीव्रकफप्रजातं ।
ज्ञात्वा विमृद्य विलयं सहसा व्रजेत्तम् ॥
स्वां नासिकामभिनिरीक्षत एव पुंसः ।
शुक्लप्रदेशसुषिरं सुविचार्य यत्नात् ॥ २७९ ॥
छिद्रे स्वदैवकृतलक्षणलक्षितेऽस्मिन् ।
विध्येत् क्रमक्रमत एव शनैश्शनैश्च ॥
सुश्लक्ष्णताम्रयववक्त्रशलाकया ती--।
व्रोत्सिंहनादमनुधुक्कफमुल्लिखेत्तम् ॥ २८० ॥
दृष्टे पुरःस्थितसमस्तपदार्थजाते ।
तामाहरेत्क्रमत एव भिषक् शलाकां ॥
उत्तानतश्शयनमस्य हितं सदैव ।
नस्यं कफघ्नकटुरूक्षवरौषधैश्च ॥ २८१ ॥

भावार्थः--The Hindi commentary was not digitized.