378
छागांबुना कतकनक्तफलद्वयं वा ।
पिष्टं तदिष्टमिह दृष्टिकरांजनं स्यात् ॥
रक्ताख्यचंदनमपि क्रमतो निघृष्टं ।
सौवीरवारिघृततैलफलाम्लतक्रैः ॥ २८२ ॥

भावार्थः--The Hindi commentary was not digitized.

शलाका निर्माण.

सत्तारताम्रगजहेमवराः शलाकाः ।
श्लक्ष्णा रसेंद्रबहुवारकृतप्रलेपाः ॥
सौवीरभावनीवशुद्धतरातिशीताः ।
संघट्टनाद्विमलदृष्टिकरा नराणां ॥ २८३ ॥

भावार्थः--The Hindi commentary was not digitized.

लिंगनाशमें त्रिफला चूर्ण.

चूर्णं यत्त्रिफलाकृतं तिलजसंमिश्रं च वातोद्भबे ।
श्लेष्मोत्थे तिमिरे घृतेन सहितं पित्तात्मके रक्तजे ॥
खण्डेनातिसितेन पिण्डितमिदं संभक्षितं पण्डितै--।
र्दृष्टिं तुष्टिमतीव पुष्टिमधिकं वैशिष्ट्यमप्यावहेत् ॥ २८४ ॥

भावार्थः--The Hindi commentary was not digitized.