379
पक्वैश्चामलकीफलैरपि शतावर्याश्च मूलैश्शुभैः ।
सम्यक्पायसमेव गव्यघृतसंयुक्तं सदा सेवितं ॥
साक्षी पक्षिपतेरिवाक्षियुगले दृष्टिं करोत्यायताम् ।
वृष्यायुष्ककरं फलत्रयरसः शीतांबुपानोत्तमम् ॥ २८५ ॥

भावार्थः--The Hindi commentary was not digitized.

मौर्व्याद्यंजन.

मौर्वीवज्रीकुमारीस्वरस--परिगतं सत्पुराणेष्टकानां ।
पिष्टं संघृष्टमिष्टं मलिनतरबृहत्कांस्यपात्रद्वयेऽस्मिन् ॥
तैलाज्याभ्यां प्रयुक्तं पुनरपि बहुदीपांजनेनातिमिश्रं ।
विश्वाभिष्यंदकोपान् शमयति सहसा नेत्रजान् सर्वरोगान् ॥ २८६ ॥

भावार्थः--The Hindi commentary was not digitized.

हिमशीतलांजन.

कर्पूरचंदनलतालवलीलवंग--। कक्कोलजातिफलकुंकुमयष्टिचूर्णैः ॥
वर्तीकृतैः सुरभिगव्यघृतप्रदीप्तं । शीतांजनं नयनयोर्हिमर्शातलाख्यम् ॥ २८७ ॥

भावार्थः--The Hindi commentary was not digitized.

सौवर्णादिगुटिका.

सौवर्णं ताम्रचूर्णं रजतसमधृतं मौक्तिकं विद्रुमं वा ।