307

अथ पंचदश परिच्छेदः ।

अथ शिरो रोगाधिकारः ।

मंगलाचरण ।

श्रियः प्रदाता जगतामधीश्वरः । प्रमाणनिक्षेपनयप्रणायकः ।
निजोपमानो विदिताष्टकर्मजि--। ज्जयत्यजेयो जिनवल्लभोऽजितः ॥ १ ॥

भावार्थः--The Hindi commentary was not digitized.

शिरोरोगकथन प्रतिज्ञा ।

प्रणम्य तं पापविनाशिनं जिनं । ब्रवीमि रोगानखिलोत्तमांगगान् ॥
प्रतीतसल्लक्षणसच्चिकित्सितान् । प्रधानतो व्याधिविचारणान्वितान् ॥ २ ॥

भावार्थः--The Hindi commentary was not digitized.

शिरोरोगोंके भेद ।

शिरोरुजो वातबलासशोणित--। प्रधानपित्तैरखिलैर्ब्रवीम्यहम् ॥
स सूर्यवत्तार्धशिरोवभेदकैः । सशंखकेनापि भवंति देहिनाम् ॥ ३ ॥

भावार्थः--The Hindi commentary was not digitized.