405
तृष्णादाहप्रकटगुणयुक् सत्प्रतिश्यायमेनम् ।
पित्तोभ्दूतं विदितनिजचिन्हैर्वदेद्वेदवेदी ॥ ९० ॥

भावार्थः--The Hindi commentary was not digitized.

कफजप्रतिश्याय के लक्षण.

उच्छूनाक्षो गुरुतरशिरः कंठताल्वोष्ठशीर्ष--।
कंडूप्रायः शिशिरबहलश्वेतसंस्रावयुक्तः ॥
उष्णप्रार्थी घनतरकफोद्बंधनिश्वासमार्गो ।
श्लेष्मोत्थेऽस्मिन् भवति मनुजोऽयं प्रतिश्यायरोगे ॥ ९१ ॥

भावार्थः--The Hindi commentary was not digitized.

रक्तज प्रतिश्याय लक्षण.

रक्तस्रावो भवति सततघ्राणतस्ताम्रचक्षु--।
र्वक्षोघातैः प्रतिदिनमतः पीडितस्स्यान्मनुष्यः ॥
सर्वं गंधं स्वयमिह महापूतिनिश्वासयुक्तो ॥
नैवं बेत्ति प्रबलरुधिरोत्थप्रतिश्यायरोगी ॥ ९२ ॥

भावार्थः--The Hindi commentary was not digitized.

सन्निपातज प्रतिश्याय लक्षण.

भूयो भूयस्स्वयमुपशमं यात्यकस्माच्च शीघ्रं ।
भूत्वा भूत्वा पुनरपि मुहुर्यः प्रतिश्यायना{??} ॥
पक्वो वा स्यादथ च सहसापक्व एवात्र साक्षात् ।
सोयं रोगो भवति विषमस्सर्वजस्सर्वलिंगः ॥ ९३ ॥