385

अथ कासाधिकारः ।

कास लक्षण.

प्राणमारुत उदानसमेतो । भिन्नकांस्यरवसंन्निभघोषः ॥
दुष्टताप्तुपगतः कुरुतेऽतः । कासरोगमपि पंचविकल्पम् ॥ १४ ॥

भावार्थः--The Hindi commentary was not digitized.

कासका भेद व लक्षण.

दोषजक्षतहृतक्षयकासा--। स्तेषु दोषजनिता निजलक्षाः ॥
वक्षसि प्रतिहतेऽध्ययनाद्यैः । सांद्ररक्तसहितः क्षतकासः ॥ १५ ॥

भावार्थः--The Hindi commentary was not digitized.

दुर्बलो रुधिरछायमजस्त्रं । ष्ठीवति प्रबलकासविशिष्टः ।
सर्वदोषजनितः क्षयकासो । दुश्चिकित्स्य इति तं प्रवदंति ॥ १६ ॥

भावार्थः--The Hindi commentary was not digitized.

वातजकासचिकित्सा.

वातजं प्रशमयत्यतिकासं । छर्दनं घृतविरेचनमाशु ॥
स्नेहबस्तिरपि साधुविपक्वं । षट्पलं प्रथितसर्पिरुदारम् ॥ १७ ॥

भावार्थः--The Hindi commentary was not digitized.

सैंधवं त्रिकटुहिंगुविडंगै--। श्चूर्णितैर्घृततिलोद्भवमिश्रैः ॥
स्नेहधूममपहंत्यनिलोत्थम् । कासमर्कपयसेव {??} ॥ १८ ॥