390

तृष्णानाशकपान.

त्वक्कषायमथं शर्करया तं । क्षीरवृक्षकृतजातिरसं वा ।
सद्रसं बृहदुदुबरजातम् । पाययेदिह तृषापरितप्तम् ॥ ३५ ॥

भावार्थः--The Hindi commentary was not digitized.

उत्पलादि कषाय.

उत्पलांबुजकशेरुकश्रृंगा--। टांघ्रिभिः क्वथितगालिततोयम् ॥
चंदनांबुघनवालकमिश्रं । स्थापयेन्निशि नभस्थलदेशे ॥ ३६ ॥
गंधतोयमतिशीतलमेव । द्राक्षया सह सितासहितं तत् ॥
पाययेदधिकदाहतृषांर्तं । मर्त्यमाशु सुखिनं विदधाति ॥ ३७ ॥

भावार्थः--The Hindi commentary was not digitized.

सारिबादि क्वाथ.

शारिबाकुशकशेरुककाशो--। शीरवारिदमधूकसपिष्टैः ॥
पक्वतोयमतिशीतसिताढ्यम् । पीतमेतदपहंत्यतितृष्णाम् ॥ ३८ ॥

भावार्थः--The Hindi commentary was not digitized.

अथ छर्दिरोगाधिकारः ।

छर्दि वमन निदान, व चिकित्सा.

छर्दिमप्यनिलपित्तकफोत्थं । साधयेदधिकृतौषधभेदैः ॥
सर्वदोषजनितामपि सर्वै--। र्भेषजैर्भिषगशेषविधिज्ञः ॥ ३९ ॥