429
कफजयोनिरोग चिकित्सा.
प्रचुरकण्डुरयोनिषु तक्ष्णिभे--। षजगणैर्बृहतीफलसैंधवैः ।
प्रतिदिनं परिपूरणमिष्टमि--। त्यहिममूत्रगणैरपि धावनम् ॥ ८० ॥
भावार्थः--The Hindi commentary was not digitized.
कर्णिनी चिकित्सा.
प्रबलकर्णवतीष्वपि शोधनैः । कृतसुवर्तिमिहाधिकभेषजैः ।
इह विधाय विशोधनसर्पिषा, प्रशमयेदथवांकुरलेपनैः ॥ ८१ ॥
भावार्थः--The Hindi commentary was not digitized.
प्रस्रंसिनीयोनिरोग चिकित्सा.
अपि च योनिमिहात्यवलंबिनीं, घृतविलिप्ततनुं प्रविवेशितम् ।
तिलजजीरकया प्रपिधाय तामधिकबंधनमेवसमाहरेत् ॥ ८२ ॥
भावार्थः--The Hindi commentary was not digitized.
योनिरोंगचिकित्सा का उपसंहार.
इति जयेत्क्रमतो बहुयोनिजामयचयान्प्रतिदोषकृतौषधैः ।
निखिलधावनधूपनपूरणैः मृदुविलेपनतर्पणबंधनैः ॥ ८३ ॥
भावार्थः--The Hindi commentary was not digitized.