433

भावार्थः--The Hindi commentary was not digitized.

पांडुरोग चिकित्सा.

अभिहितक्रमपाण्डुगदातुरो । विदितशुद्धतनुर्घृतशर्करा--॥
विलुलितत्रिफलामथवा निशा--। द्वयमयस्त्रिकटुं सततं लिहेत् ॥ ९५ ॥

भावार्थः--The Hindi commentary was not digitized.

पांण्डुरोगघ्न योग.

अपि विडंगयुतत्रिफलांबुदान् । त्रिकटुचित्रकधात्र्यजमोदकान् ॥
अति विचूर्ण्य गुडान् सघृताप्लुतान् । निखिलसारंतरूदकसाधितान् ॥ ९६ ॥
इति विपक्वमिदं बहलं लिहन् । जयति पाण्डुगदानथ कामलाम् ॥
अपि च शर्करया त्रिकटुं तथा । गुडयुतं च गवां पय एव वा ॥ ९७ ॥

कामलाकी चिकित्सा.

यदिह शोफचिकित्सितमीरितं तदपि कामालिनां सततं हितम् ।
गुडहरीतकमूत्रसुभस्मनिसृतजलं यवशालिगणौदनम् ॥ ९८ ॥

भावार्थः--The Hindi commentary was not digitized.