438

उन्मादनाशक अन्यबिधि.

कूपेऽतिपूतिबहुभीमशवाकुलेऽस्मिन् ।
तं शाययेदतिमहाबहलांधकारे ॥
सम्यग्ललाटतटसर्वशिराश्च लिढ्वा ।
रक्तप्रमोक्षणमपीह भिषग्विदध्यात् ॥ ११० ॥

भावार्थः--The Hindi commentary was not digitized.

उन्माद में पथ्य.

स्निग्धातिधौतमधुरातिगुरुप्रकार ।
निद्राकराणि बहुभोजनपानकानि ॥
मेधावहान्यतिमदप्रशमैकहेतून् ।
संशोधनानि सततं विदधीत दोषान् ॥ १११ ॥

भावार्थः--The Hindi commentary was not digitized.

अपस्मार निदान.

भयमिह भवत्यप्सु प्राणैर्यतः परिमुच्यते !
स्मरणमपि तत्रैवावश्यं विनश्यति मूर्च्छया ॥
प्रबलमरुतापस्माराख्यस्त्रिदोषगुणोप्यसा--।
वसितहरितश्वेतैर्भूतैः क्षणात्पतति क्षितौ ॥ ११२ ॥
भुवि निपतितो दंतान्खादन् वमन् कफमुच्छ्वसन् ।
बलिककरगात्रोध्दृत्ताक्षः स्वयं बहु कूजति ॥
मरणगुणयुक्तापस्मारोऽयमंतकसन्निभ--।
स्तत इह नरो मृत्बा मृत्वात्र जीवति कृच्छ्रतः ॥ ११३ ॥