461

भूतादि देवतायें मनुष्योंको कष्ट देने का कारण.

व्यंतरा भुवि वसंति संततं पीडयंत्यपि नरान्समायया ।
पूर्वजन्मकृतशत्रुरोषतः क्रीडनार्थमथवा जिघांसया ॥ ६६ ॥

भावार्थः--The Hindi commentary was not digitized.

ग्रहबाधायोग्य मनुष्य.

यत्र पंचविधसद्गुरून्सदा नार्चयंति कुसुमाक्षतादिभिः ।
पापिनः परधनांगनानुगा भुंजतेन्नमतिविन्न पूजयन् ॥ ६७ ॥
पात्रदानबलिभैक्षवर्जिता भिन्नशून्यगृहवासिनस्तु ये ।
मांसभक्षमधुमद्यपायिनः तान्विशंति कुपिता महाग्रहाः ॥ ६८ ॥

भावार्थः--The Hindi commentary was not digitized.

बालग्रह के कारण.

बालकानिह बहुप्रकारतस्तर्जितानपि च ताडितान्मुहुः ।
त्रासितानशुचिशून्यगेहसंवर्धितानभिभवंति ते ग्रहाः ॥ ६९ ॥