446
धवलनयनता निद्राति तत्पीनसत्वं ।
भवति हि खलु शोषे पूर्वरूपाणि तानि ॥ ८ ॥

भावार्थः--The Hindi commentary was not digitized.

शुकशिखिशकुनैस्तै कौशिकैः काकागृध्नैः ।
कपिगणकृकलासैर्नीयते स्वप्नकाले ॥
खरपरुषविशुष्कां वा नदीं यः प्रपश्येत् ।
दवदहनविपन्नान् रूक्षवृक्षान् सधूमान् ॥ ९ ॥

भावार्थः--The Hindi commentary was not digitized.

वात आदिके भेदसे राजयक्ष्माका लक्षण.

पवनकृतविकारान्नष्टभिन्नस्वरोन्त--।
र्गतनिजकृशपार्श्वो वंससंकोचनं च ।
ज्वरयुतपरिदाहासृग्विकारोऽतिसाराः ।
क्षयगतनिजरूपाण्यत्र पित्तोद्भवानि ॥ १० ॥
अरुचिरपि च कासं कंठजातं क्षतं तत् ।
कफकृतबहुरूपाण्युत्तमांगे गुरुत्वम् ॥
इतिंदशभिरथैकेनाधिकैर्वा क्षयार्तं ।
परिहरतु यशोऽर्थी पंचषड्भिः स्वरूपैः ॥ ११ ॥

भावार्थः--The Hindi commentary was not digitized.