447

राजयक्ष्मका असाध्यलक्षण.

बहुतरमशनं यः क्षीयमाणोऽतिभुंक्ते ।
चरणजठरगुह्योद्भूतशोफोऽतिसारी ।
यमहरवरनारीकौतुकासक्तचित्तो ।
व्रजति स निरपेक्षः क्षिप्रमेव क्षयार्तः ॥ १२ ॥

भावार्थः--The Hindi commentary was not digitized.

राजयक्ष्माकी चिकित्सा.

अभिहितसविशेषैंर्बृहणद्रव्यसिद्धै--।
स्समुदितघृतवर्गैःस्निग्धदेहं क्षयार्तं ।
मृदुतरगुणयुक्तैः छर्दनैः सद्विरेकै--।
रपि मृदुशिरसस्संशोधनैश्शोधयेत्तम् ॥ १३ ॥

भावार्थः--The Hindi commentary was not digitized.

राजयक्ष्मीको भोजन.

मधुरगुणविशेषाशेषशालीन्यवान्वा ।
बहुविधकृतभक्षालक्ष्यगोधूमसिद्धान् ।
घृतगुडबहुदुग्धैर्भोजयेन्मुद्गयूषैः ।
फलगणयुतमृष्टैरिष्ठशाकैस्सुपुष्टैः ॥ १४ ॥