450

महाक्षयरोगांतक.

त्रिकटुकत्रुटिनिंबारग्वधग्रंथिभल्ला--।
तकदहनसुराष्ट्रोभ्दूतपथ्याजमोदै--॥
रसनखदिरधात्रीशालगायत्रिकाख्यैः ।
क्वथितजलविभागैः पक्वमाज्याच्चतुर्भिः ॥ २१ ॥
अथ कथितघृते त्रिंशात्सितायाः पलानि ।
प्रकटगुणतुगाक्षीर्याश्च षट्प्रस्थमाज्ये ॥
विषतरुसुविडंगक्वाथसप्रस्थयुग्मं ।
खजमथितमशेषं तं तु दत्वोक्तकुंभे ॥ २२ ॥
भुवि बहुतरधान्ये चानुविन्यस्तमेत--।
द्गतवति सति मासार्धे तदुध्दृत्य यत्नात् ॥
प्रतिदिनमिह लीढ्वा नित्यमेकैकमंशं ।
पलमितमनुपानं क्षीरमस्य प्रकुर्यात् ॥ २३ ॥
घृतमिदमतिमेध्यं वृष्यमायुष्येहतुः ।
प्रशमयति च यक्ष्माणं तथा पाण्डुरोगान् ॥
भवति न परिहारोस्त्येतदेवोपयुज्य ।
प्रतिदिनमथ मर्त्यः तीर्थकृद्वा वयस्थः ॥ २४ ॥

भावार्थः--The Hindi commentary was not digitized.

64
  1. चार प्रस्थ,